बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.
मोक्षस्य मार्गः
जीवनस्य सर्वविधं सुखं दुःखं च अनुभूतवान् देवय्यः इतःपरं लौकिकजीवनस्य अवश्यकता नास्ति इति मत्वा कञ्चन साधुम् उपसर्प्य मोक्षस्य मार्गं दर्शयितुं प्रार्थयते । किन्तु तस्य संसारव्यामोहः न अपगतः इति ज्ञात्वा साधुः अवदत् 'यदा नेत्रे निमील्य अपि गृहादिकं न दृश्यते तदा एव मोक्षस्य प्राप्तिः । मोक्षं प्राप्तुं कठिनतपः आचरणीयम् इति नास्ति । संसारः अपि परित्यक्तव्यः इत्यपि नास्ति । सर्वदा भगवतः नामस्मरणं कुर्वन् धर्ममार्गम् आश्रयति चेत् मोक्षः स्वयमेव प्राप्येत' इति । ततः देवय्यः ज्ञानोदयं प्राप्य साधुं नमस्कृत्य गृहं प्रति प्रत्यागच्छत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Having experienced all joys and sorrows of life, Devayya felt worldly living was no longer necessary. He approached a sage, asking for guidance on the path to liberation. The sage, perceiving that Devayya’s attachment to the world was not yet gone, said: “Liberation comes when, even with closed eyes, one no longer sees house or possessions. It does not require severe austerities, nor does it demand renouncing the world. By constantly remembering God’s name and following the path of righteousness, liberation comes naturally”. With this realization, Devayya bowed to the sage and returned home enlightened.
अध्यात्ममार्गे
कश्चन गुरुः दुःखे विद्यमानं भक्तं वदति 'भवान् पुण्यवान्' इति । सन्तोषेण स्थितवन्तं भक्तं तु प्रहरति । तद् दृष्ट्वा नूतनः शिष्यः ज्येष्ठं शिष्यं आचार्यस्य आचरणस्य आन्तर्यं किम् इति पृच्छति । तदा ज्येष्ठः शिष्यः वदति 'यः दुःखे भवेत् सः आत्मना कृतं दोषम् अवगच्छति, अध्यात्ममार्गे अग्रे गच्छति च । यः सन्तोषेण स्थितः अस्ति सः स्वस्य दोषः कः इति न जानाति स्म, ज्ञातुं प्रयासमपि न करोति स्म । अतः एव तं प्रहृत्य तदीयान् लोपान् ज्ञापयित्वा आत्मपरिष्काराय किं किं करणीयम् इति आचार्येण बोधितम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A teacher once told a devotee who was in sorrow, “You are virtuous.” But to another devotee who was content, he struck. Seeing this, a new disciple asked a senior disciple about the meaning behind the teacher’s actions. The senior explained: “One who suffers realizes his own faults and moves forward on the spiritual path. But one who remains content does not know his faults, nor does he try to know them. Therefore, the teacher struck him to make him aware of his shortcomings and to guide him toward self-improvement”.
भवेत् आन्तरङ्गिकः विकासः
कश्चन राजा भौतिकव्यवस्थापरिकल्पनमात्रात् सुखशान्त्यादयः वर्धिष्यन्ते इति विचिन्त्य सर्वविधानि आनुकूल्यानि प्रजानां कृते परिकल्पितवान् आसीत् । तथापि सुखशान्त्यादयः प्रवृद्धाः न दृश्यन्ते इति यदा सः स्वस्य मार्गदर्शकं संन्यासिनम् उप्सर्प्य अवदत् तदा संन्यासी 'सुखशान्त्यादयः आन्तरङ्गिकाः । ते च भावाः जनानां मनस्सु स्वयम् उत्पन्नाः भवेयुः । तदर्थं धार्मिकोपन्यासाः आयोजनीयाः, सत्सङ्गादयः व्यवस्थापनीयाः, परोपकारः, समाजसेवा, दानप्रवृत्तिः इत्यादिषु जनाः आधिक्येन प्रवर्तनीयाः.....’ इत्यवदत् । इतिकर्तव्यताबोधं प्राप्तवान् राजा गुरुं प्रणम्य ततः निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king once thought that by arranging material comforts alone, happiness and peace among his people would increase. Yet, when these did not appear, he approached his Guru. The Guru explained: “Happiness and peace are inner states. They must arise within people’s minds. For this, religious discourses should be organized, gatherings of noble company arranged, and people encouraged toward charity, social service, and helping others”. Understanding his duty, the king bowed to his teacher and departed.
असदृशी प्रीतिः
श्रीरामे हनूमतः महती प्रीतिः, प्रेम, आदरः च । कदाचित् सिन्दूरलेपनं कुर्वतीं सीतां दृष्ट्वा सः सिन्दूरलेपनस्य कारणं किम् इति पृच्छति । तदा 'तव स्वामिनः दीर्घायुष्यं प्रार्थयमाना अहं सिन्दूरलेपनं करोमि' इति अवदत् सीता । तत् श्रुतवान् आञ्जनेयः आपणं गत्वा महास्यूतेन सिन्दूरम् अनीय गृहं गत्वा स्नानं कृत्वा समग्रं शरीरं सिन्दूरेण लिप्त्वा सीतारमयोः पुरतः स्थितः । सीतामातुः नेत्रे अश्रुपूर्णे जाते । अद्यापि भाव्यते यत् प्रीतेः वर्णः सिन्दूरवर्णः इति । अतः एव उत्तरभारते हनूमतः देवालये सिन्दूरं तैलेन मिश्रीकृत्य प्रतिमायां लिम्पन्ति । प्रसादरूपेण अपि तदेव दीयते बहुत्र ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Hanuman had deep love, devotion, and respect for Lord Rama. One day, seeing Sita applying vermilion (sindoor), he asked the reason. Sita replied, “I apply sindoor to pray for the long life of your master, Rama”. Hearing this, Hanuman went to the market, bought a large quantity of sindoor, bathed, and covered his entire body with it. He then stood before Rama and Sita. Sita’s eyes filled with tears at his devotion. Even today, it is believed that the color of love is the color of sindoor. That is why, in temples of Hanuman in North India, sindoor mixed with oil is applied to his idol and also distributed as prasada.
आवश्यकतापूरणम् एव श्रेष्ठः धर्मः
कदाचित् कश्चन कुग्रामवासी कस्यचन धनिकस्य गृहं गत्वा जलं याचति । किन्तु धनिकः तस्य मलिनवस्त्रं दृष्ट्वा क्रुद्धः भूत्वा किमपि न यच्छति । अग्रे कदाचित् सः धनिकः यदा मृगयार्थं गतः तदा मार्गभ्रष्टः सन् बहुधा अटित्वा अन्ते कुग्रामवासिनः गृहं प्राप्नोत् । किन्तु सः कुग्रामवासी धनिकाय जलं भोजनं शयनाय स्वस्य मञ्चं च दत्तवान् । अग्रिमदिने यदा धनिकः सुवर्णनाणकानि कुग्रामीणाय कृतज्ञतापूर्वकं दातुम् उद्यतः तदा कुग्रामवासी तत् निराकुर्वन् अवदत् 'जीवने धनम् आगच्छेत् गच्छेत् च । जीवने धनं मुख्यं न । यस्मिन् काले यस्य या आवश्यकता भवेत् सा पूरणीया । तादृशव्यवहारवान् एव उत्तमत्वेन ख्यातः भविष्यति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a poor villager went to a wealthy man’s house asking for water. Seeing his dirty clothes, the rich man grew angry and refused. Later, while hunting, the same rich man lost his way and, after wandering long, reached the poor villager’s hut. The villager welcomed him with water, food, and even his own bed to rest. The next day, the rich man tried to reward him with gold coins. But the villager declined, saying: “Wealth comes and goes; it is not the essence of life. What matters is fulfilling another’s need at the right time. Such conduct alone brings true honor”.
ज्ञानाय परिश्रमः एव मार्गः
कश्चन राजा तस्य पुत्रं गुरुकुलं प्रेषयितुम् इच्छन् तत्रत्यम् आचार्यम् अपृच्छत् यत् तस्य पुत्रस्य वासशिक्षणादिनिमित्तं कापि विशेषव्यव्यस्था परिकल्पयितुं शक्यते वा इति । तदा आचार्यः अवदत् 'राजकुलीयानां सञ्चाराय, वासाय, आहारस्य वा विशेषव्यवस्था भवेत् राजभवने किन्तु ज्ञानमार्गेण ये गन्तुम् इच्छेयुः तेषां निमित्तं पार्थक्येन न भवति विशेषमार्गः । अत्र राजकुमारेण सर्वैः सह वासः करणीयः, सर्वैः यत् सेव्येत तदेव सेवनीयं, सर्वैः यथा परिश्रमेण अध्ययनं क्रियेत तथैव करणीयम् च’ इति । राजा प्रतिवचनं किमपि अनुक्त्वा अनन्तरदिने एव पुत्रम् आनीय गुरुकुलं प्रवेशितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king wished to send his son to a gurukula and asked the teacher if any special arrangements could be made for the prince’s stay and education. The teacher replied: “Special provisions for travel, lodging, or food may exist in the royal palace, but on the path of knowledge there is no separate way. Here the prince must live with all, eat what all eat, and study with the same effort as everyone else”. The king said nothing in response, but the very next day he brought his son and admitted him into the gurukula.
सार्थकताप्राप्तिमार्गः
कश्चन ख्यातः विद्वान् कञ्चित् ज्योतिषिकं द्रष्टुं गतः द्वित्रैः अनुयायिभिः सह । ख्यातनामा सः ज्योतिषिकः मुखदर्शनमात्रेण एव पुरतः स्थितस्य जनस्य गुणस्वभावादिकं वक्तुं समर्थः आसीत् । सः विदुषः मुखं किञ्चित् कालं दृष्ट्वा तस्मिन् विद्यमानान् बहून् दुर्गुणान् उल्लिखितवान् । तथापि सः महाजनः दक्षिणारूपेण प्रभूतं धनं दत्त्वा ततः प्रतिगतवान् । प्रतिगमनसमये कश्चन अनुयायी अपृच्छत् 'यद्यपि सः ज्योतिषिकः अप्रियान् अंशान् बहुधा श्रावितवान् तथापि भवता तस्मै प्रभूतं धनं किमर्थं दत्तम्?’ इति । तदा सः महाजनः अवदत् ' सः यद्यत् अवदत् ते दुर्गुणाः मयि सन्ति । अतः तदीयं सामर्थ्यं पुरस्कुर्वन् अहं तस्मै प्रभूतं धनं दत्तवान् । किन्तु तेन अनुक्तः कश्चन विशेषगुणः अस्ति मयि । सा अस्ति आत्मनिग्रहशक्तिः । ताम् अवलम्ब्य अहं तान् दुर्गुणान् निगृहीतवान् अस्मि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A renowned scholar once visited an astrologer, accompanied by a few followers. The astrologer, known for describing a person’s nature just by looking at their face, observed the scholar briefly and listed many faults in him. Yet, the scholar gave the astrologer a large sum of money and departed. On the way back, one follower asked, “Though he spoke so many unpleasant things, why did you reward him so generously?” The scholar replied: “What he said about my faults is true. I honored his ability by giving him wealth. But there is one special quality in me that he did not mention—self-control. By relying on it, I have subdued those faults”.
परिशुद्धतायाः फलम्
कस्मिंश्चित् संशोधनकेन्द्रे अन्तिमचक्रस्य संदर्शने सि.वि.रामन्वर्यः षण्णाम् अभ्यर्थिनां सन्दर्शनं कृत्वा तेषु त्रीन् चितवान् । तेभ्यः षड्भ्यः अपि यातायातव्ययं दातुं तत्सम्बद्धम् अधिकारिणम् असूचयत् सः । तेषु एकः युवकः यः सन्दर्शने न चितः सः रामन्-वर्यम् उपसर्प्य 'यः यातायतव्ययः प्रदत्तः, तत्र दोषेण सप्त रूप्यकाणि अधिकानि दत्तानि' इति अवदत् । रामन्-वर्यः सप्त रूप्यकाणि स्वीकृत्य अग्रिमरदिने मेलितुम् अवदत् । अनन्तरदिने यदा सः युवकः अगच्छत् तदा रामन्-वर्यः तस्य निमित्तम् एकं पदं सृष्टवान् । यद्यपि सः भौतशास्त्रस्य परीक्षायाम् अधिकाङ्कान् न प्राप्तवान् तथापि परिशुद्धतापरीक्षायां सफलः अभवत् इति कारणतः । सः एव भाविनि काले विश्वस्तरे ख्यातः वैज्ञानिकः समभवत् । तस्य नाम 'सुब्रह्मण्यं चन्द्रशेखरः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
At a research centre’s final round of interviews, Sir C. V. Raman selected three out of six candidates. He informed the authorities to provide travel allowance to all six. One young man, who was not selected, approached Raman and said, “By mistake, seven rupees extra were given in the allowance.” Raman accepted the money and asked him to come the next day. When the youth came, Raman created a position for him, saying that although he had not scored highest in physics, he had passed the test of integrity. That young man later became a world-renowned scientist—Subrahmanyan Chandrasekhar.
भगवदुपासनायाः उद्देशः
कस्यचन आश्रमस्य अर्थस्थितिः नास्ति इत्यतः तत्रत्यः आचार्यः आश्रमस्य निर्वहणार्थं सर्वदा कष्टम् अनुभवति स्म । अतः कश्चन शिष्यः आचार्यम् उपसर्प्य 'भवान् आश्रमस्य अर्थक्लेशस्य निवारणाय किमर्थं भगवन्तं न प्रार्थयते?’ इति अवदत् । तदा आचार्यः अवदत् 'प्रतिफलम् अपेक्ष्य भगवदुपासना न करणीया वत्स ! असीमानन्दानुभूत्यै वयं निसर्गं पश्यामः, न तु प्रतिफलापेक्षया । एवमेव भगवदुपासना अपि असीमानन्दस्य अनुभूत्यै एव करणीया, न तु प्रतिफलं किमपि एष्टव्यम् । व्यक्तिगतप्रयोजनाय क्रियमाणा उपासना वाणिज्यमिव स्यात् । तादृशी उपासना न हि प्रशस्ता' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In an ashram where financial resources were lacking, the teacher often struggled to maintain it. One disciple asked, “Master, why don’t you pray to God to remove these financial troubles?”. The teacher replied: “Worship of God should never be done with expectation of reward, my child. Just as we look at nature for boundless joy, not for gain, so too worship is meant for experiencing infinite bliss, not for seeking benefits. Worship done for personal profit becomes like trade, and such worship is not noble”.
भगवतः साक्षात्कारः
अस्यां कथायां कश्चन महात्मा बहून् ग्रन्थान् अधीतवन्तं कञ्चन पण्डितं भगवतः साक्षात्कारस्य विषये वदति । भगवान् प्रत्यक्षतः स्वप्ने वा प्रकटीभवेत् यत् तदेव भगवतः साक्षात्कारः इति मन्यमानं पण्डितं महात्मा वदति 'भगवान् सर्वेषु जीविषु अस्ति । अतः दीनदुर्गतानां सेवां कुर्वन् भवान् भगवत्स्वरूपं पश्यतु । परोपकारः भवतः स्वभावः भवतु । नदीतरुगुल्मादिषु अपि भगवत्स्वरूपं द्रष्टव्यम् । एतादृशात् आचरणात् एव सर्वत्र भगवन्तं द्रष्टुम् अर्हति भवान् । एषः एव भगवतः साक्षात्कारः नाम' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In this story, a sage speaks to a scholar who believed that seeing God directly or in dreams was the true realization of God. The sage explained: “God is present in all beings. By serving the poor and distressed, you see the divine form. Let compassion and selfless service be your nature. God’s presence must also be seen in rivers, trees, and plants. Through such conduct, one truly perceives God everywhere. This alone is called realization of God”.
आकाशस्य आधारः
'आकाशस्य आधारः एव नास्ति । निराधारः आकाशः ममोपरि पतेत् चेत् मम का गतिः ?’ इति कश्चन बालकः स्वस्य चिन्तनं कस्मैचित् संन्यासिने अवदत् । मन्दहासं प्रकटयन् संन्यसी बुभुक्षाग्रस्तं बालकं 'भिक्षायाचनं कृत्वा आहारं प्राप्य बुभुक्षां निवारय' इति असूचयत् । भिक्षायाचनाय गतः बालकेन किमपि न प्राप्तम् । नितरां खिन्नेन तेन ग्रामात् बहिः कश्चन उटजः प्राप्तः । तत्र काचित् माता तस्मै प्रीत्या भोजनं दत्तवती । प्रवृत्तं सर्वं यदा बालकः संन्यासिनम् अवदत् तदा संन्यासी प्रत्यवदत् 'तया मात्रा यादृशं प्रेम दर्शितं तादृशं प्रेम, वात्सल्यं, परोपकारः, दया, करुणा इत्यादयः सद्गुणाः एव आकाशस्य आधारः । एते गुणाः यावत् लोके तिष्ठेयुः तावत् आकाशस्य पतनं न संभविष्यति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A boy once expressed his wonder to a saint: “The sky has no support. If an unsupported sky were to fall on me, what would happen?” Smiling gently, the saint advised him to beg for food to ease his hunger. The boy tried but received nothing, until a kind mother outside the village lovingly gave him a meal. When he told the saint what had happened, the monk explained: “The love, compassion, kindness, and selfless care shown by that mother are the true supports of the sky. As long as such virtues exist in the world, the sky will never fall”.
निर्व्यामोहप्राप्त्यै मार्गः
कदाचित् कश्चन राजा कस्मैचित् संन्यासिने सुवर्णमयं भिक्षापात्रम् अयच्छत् । संन्यासी तेन भिक्षापात्रेण भिक्षायाचनं करोति स्म । कश्चन चोरः तत् पात्रं चोरयितुं तं संन्यासिनं रहसि अनुसृतवान् । एतत् ज्ञातवान् संन्यासी भिक्षापात्रं बहिः अक्षिपत् । तत् दृष्ट्वा निर्व्यामोहम् अमूल्यं भिक्षापात्रं बहिः क्षिप्तवान् अयं महात्मा इति विचिन्त्य अन्तः गत्वा महात्मानं नमस्कृत्य 'कथम् अमूल्यं वस्तु बहिः क्षिप्तं भवता ?’ इति अपृछत् चोरः । संन्यासी तस्मै उपदेशम् अकरोत् । गच्छता कालेन चोरेण चौर्यं कर्तुमपि न शक्तम् । अल्पे एव काले सुवर्णधनादयः शिलामृत्तिकादयः इव अभासन्त । अन्ते सः संन्यासिनः शिष्यः भूत्वा आत्मशुद्धिं प्राप्य उत्तमजीवनम् अयापयत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king once gifted a saint a golden begging bowl. The saint used it for alms, but a thief secretly followed him, hoping to steal it. Realizing this, the saint threw the bowl away. Amazed at such detachment, the thief approached and asked, “How could you discard such a precious thing?” The saint gave him a teaching. Over time, the thief lost his desire to steal, seeing gold and wealth as mere dust and stones. Eventually, he became the saint’s disciple, attained inner purity, and lived a noble life.
यद्विना सर्वमपि व्यर्थं तत् .....
कस्यचन विद्याकेन्द्रे ज्योतिष-वैद्यकीय—शिल्पशास्त्रादयः जीवनोपयोगिन्यः विद्याः प्राधान्येन अध्याप्यन्ते स्म । देशस्य नानाकोणेभ्यः विदेशेभ्यः च अध्ययनोत्सुकाः तत् विद्याकेन्द्रं प्रति आयान्ति स्म । कदाचित् तं विद्याकेन्द्रं द्रष्टुम् आगतेन केनचित् महात्मना दिनद्वयं स्थित्वा सर्वा व्यवस्था परिशीलिता । सः यदा प्रस्थातुम् उद्यतः तदा तस्य विद्याकेन्द्रस्य प्राचार्यः तस्य अभिप्रायम् अपृच्छत् । तदा महात्मा अवदत् 'अत्र यथा सम्पादनमार्गाः बोध्यन्ते तथैव गुणवृद्धिमार्गः अपि बोधनीयः, आचारेण दर्शनीयः, वृत्तिमतां व्यवहारे ते गुणाः यथा दृष्येरन् तथा प्रयासः करणीयः च‘ इति । सूक्ष्मतया अवलोक्य अपेक्षितं परिष्कारम् उक्तवते महात्मने प्राचार्यः धन्यवादान् समर्पितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A learning center taught practical sciences like astrology, medicine, and engineering, attracting students from across the country and abroad. A sage visited, observed for two days, and when asked for his opinion, said: “Along with teaching methods of knowledge, ways of cultivating virtues must also be taught and shown through conduct, so that they are reflected in the behavior of the learned”. The principal thanked him for his valuable advice.
चतुर्विधा शुद्धिः
कदाचित् कश्चन राजा कस्यचन आश्रमस्य गुरुम् उपसर्प्य स्वस्य व्यवहारः कीदृशः भवेत् इति मार्गदर्शनं प्रार्थयते । तदा गुरुः 'चतुर्विधा शुद्धिः अपेक्ष्यते' इति अवदत् । ताः काः इति राज्ञा पृष्टे गुरुः अवदत् 'कायिकी, मानसिकी, आर्थिकी, आन्तरङ्गिकी' चेति । ततः गुरुः तासां शुद्धीनां विवरणं ददाति । तासां च प्राप्त्यर्थं किं किं करणीयम् इति सर्वं राजानं बोधयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a king approached the teacher of an ashram and asked for guidance on how he should conduct himself. The teacher replied, “Four kinds of purity are required”. When the king asked what they were, the teacher said: “Physical purity, mental purity, financial purity, and inner purity”. The teacher then explained each of these in detail and instructed the king on what must be done to attain them.
परोपकारः प्रवृत्तिः
आ बाल्यात् परोपकारी सेवातत्परः च रामरमणः जगन्नाथस्य भक्तया मात्रा कनककुमार्या सर्वदा बोधितः भवति स्म - 'दुःखग्रस्तानां साहाय्यं यदि क्रियेत तर्हि भगवान् सन्तुष्टः भवेत्' इति । कदाचित् शिरोभ्रमणं प्राप्य पतितवतः कस्यचन वृद्धस्य सेवां करोति रामरमणः । वृद्धस्य वस्तूनि स्वशिरसि संस्थाप्य यदा वृद्धेन सह प्रस्थितः तदा 'निम्नजातीयस्य मम वस्तूनि भवता न वोढव्यानि' इति अवदत् वृद्धः। 'भगवतः दृष्ट्या सर्वे समानाः । वृद्धस्य भवतः सेवा मम कर्तव्यम्' इत्यवदत् रामरमणः । तावता तत्र आगतवती माता पुत्रस्य साहाय्यप्रवृत्तिं दृष्ट्वा नितरां सन्तुष्टा । अग्रे अयमेव रामरमणदासत्वेन ख्यातिं प्राप्तवान् समग्रे अपि उत्कलराज्ये ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
From childhood, Ramaramana was devoted to service and helping others. His mother, Kanaka Kumari, a devotee of Lord Jagannath, always taught him: “If you help those in distress, God will be pleased”. One day, Ramaramana helped an old man who had fainted and fallen. Carrying the old man’s belongings on his own head, he walked with him. The old man said: “You should not carry my things as i am from lower caste”. Ramaramana replied: “In God’s eyes, all are equal. Serving you is my duty”. At that moment, his mother arrived and was deeply pleased to see her son’s spirit of service. Later, Ramaramana became famous throughout the kingdom of Utkala as Ramaramana Dasa.
कुशलस्य सत्यनिष्ठा
पूर्वं सारङ्गिपुरनामके राज्ये कुशलनामकः युक्तिशाली मन्त्री आसीत् । सः न केवलं धीमान् अपि तु सत्यनिष्ठापरः प्रभुनिष्ठापरः च आसीत् । कदाचित् अन्यदेशे निवसन् तदीयः जामाता गृहम् आगतः । यदा तौ राजमार्गे गच्छन्तौ आस्तां तदा जामाता राज्ञः सैन्यशक्तिविषयम् अपृच्छत् । राज्यस्य आन्तरिकः विषयाः कस्मैचिदपि कदापि न वक्तव्याः इति प्रतिज्ञातवान् आसीत् कुशलः । परिवारात् अपि राज्यं मुख्यम् इत्यतः राज्यसम्बद्धं विवरणं परिवारजनानां पुरतः न वदिष्यामि इत्युक्तवान् कुशलः । श्वशुरस्य सत्यनिष्ठापरतां स्वामिनिष्ठां च दृष्ट्वा जामाता सन्तुष्टान्तरङ्गः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Long ago, in the kingdom of Sārangapura, there was a wise minister named Kushala. He was not only intelligent but also deeply devoted to truth and loyalty to his king. Once, his son-in-law, who lived in another country, came to visit. As they walked along the royal road, the son-in-law asked about the king’s military strength. Kushala, who had vowed never to reveal internal matters of the kingdom to anyone, replied: “The kingdom is more important than family. Therefore, I will not disclose state secrets even before my relatives”. Seeing his father-in-law’s steadfastness in truth and loyalty, the son-in-law felt deeply satisfied and inspired.
भेदांशः अयमेव
कश्चन राजा कञ्चन संन्यासिनम् अपृच्छत् 'आवयोः भेदः कः?' इति । तदा संन्यासी अवदत् 'किञ्चिद्दूरं सञ्चराव । तत्र अहं ज्ञापयिष्यामि' इति । ततः प्रस्थितवन्तौ । बहवः ग्रामाः अतिक्रान्ताः । सुदूरम् अतिक्रान्तं चेदपि संन्यासी किमपि न अवदत् । एतत् असहमानः राजा 'कियद्दूरम् एव गमनम्?’ इति यदा अपृच्छत् तदा 'अग्रे गच्छाव तावत्' इति अवदत् संन्यासी । तदा राजा वदति 'मया प्रासादः प्रतिगमनीयः। मम राज्यम् अस्ति, पत्नीपुत्रादयः सन्ति, दैनन्दिककर्तव्यानि सन्ति.....’ इति । अन्ते संन्यासी वदति 'अयमेव आवयोः भेदः । अहं सवर्मपि परित्यज्य संन्यासी जातः । भौतिकबन्धनानि छित्त्वा अग्रे प्रस्थितः अहम् । भवान् तु तत्रैव बद्धः' इत्युक्त्वा अग्रे गतवान् संन्यासी ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A certain king once asked a sanyasi, “What is the difference between us?”. The monk replied, “Let us walk a little distance, then I will show you”. They set out together, passing through many villages. Even after traveling far, the monk said nothing. The king, growing impatient, asked, “How much farther must we go?” The monk answered, “Let us go on ahead for now” said the sanyasi. Then the king said, “I must return to my palace. I have a kingdom, a wife, children, and daily duties to attend to”. At last the sanyasi declared, “This is the difference between us. I have renounced everything and freed myself from worldly bonds, moving forward without attachment. You, however, remain bound to them”. Saying this, the sanyasi continued on his way.
देशसमृद्धिः न सुवर्णेन
कश्चन राजा सुवर्णनिर्माणविद्यां ज्ञातुं कस्मिंश्चित् आश्रमे मासं यावत् न्यवसत् । आश्रमे सः सत्सङ्गकार्यक्रमे भागम् ऊढवान् । अन्तिमदिने यदा संन्यासी अपृच्छत् 'श्वः सुवर्णनिर्माणविद्यां बोधयिष्यामि किम्?’ इति । तदा राजा अवदत् 'महात्मन्! तस्य आवश्यकता नास्ति । मम हृदयम् अमृतरसायनेन पूर्णम् अस्ति । सत्सङ्गस्य कारणतः जनाः लोभ-मोह-अहङ्कारादिभ्यः विकारेभ्यः मुक्ताः भवन्ति । अतः देशे सत्सङ्गानां व्यवस्थापनाय व्यवस्था करणीया । ततः प्रजानां जीवनस्तरस्य वृद्धिः, देशस्य समृद्धिः च भवितुम् अर्हति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king once stayed in an āśrama for a month to learn the art of making gold. During his stay, he participated in satsanga (spiritual gatherings). On the final day, the sage asked: ‘Shall I teach you the science of gold-making tomorrow?’. The king replied: ‘Revered one, I have no need of that. My heart is already filled with the nectar of wisdom. Through satsanga, people are freed from greed, delusion, and pride. Therefore, arrangements should be made to establish satsangas in the land. This will uplift the lives of the people and bring prosperity to the nation.’
कृष्णः ध्वजः श्वेतः जातः
कदाचित् कश्चन लुण्ठाकः पश्चात्तापं प्राप्य कञ्चित् गुरुं दृष्ट्वा सन्मार्गप्राप्तीच्छां वदति । तदा गुरुः तस्मै एकं कृष्णध्वजं दत्त्वा 'एतं गृहीत्वा तीर्थयात्रां कुरु । यदा एषः श्वेतः भविष्यति तदा भवतः पापात् मुक्तिः' इति अवदत् । शताधिकेषु तीर्थेषु तेन स्नानं कृतं चेत् अपि ध्वजः श्वेतवर्णतां न गतः । तस्मात् सः नितरां खिन्नः । अथ कदाचित् सः दशाधिकेभ्यः दुष्टेभ्यः काञ्चित् सुन्दरीं रक्षितवान् । तदा हस्ते स्थितः ध्वजः श्वेतः जातः । यदा सः प्रवृत्तं सर्वं गुरुम् अवदत् तदा गुरुः अवदत् ‘भवता तीर्थस्नानावसारे स्वप्रयोजनमात्रं चिन्तितम् आसीत् । अतः ध्वजः कृष्णवर्णः एव आसीत् । किन्तु महिलारक्षणावसरे परोपकारः चिन्तितः इति कारणतः ध्वजः श्वेतः जातः’ इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A repentant thief approached a guru, seeking the right path. The guru gave him a black flag and said: ‘Carry this on your pilgrimages. When it turns white, you will be freed from sin’. The man bathed at hundreds of holy places, yet the flag remained black, leaving him disheartened. One day, however, he rescued a young woman from a group of ruffians. At that moment, the flag in his hand turned white. When he told the guru, the guru explained: ‘During pilgrimages you thought only of your own benefit, so the flag stayed black. But in saving the woman, you acted with selfless compassion — hence the flag turned white’.
उचितम् आचरणम्
कदाचित् कश्चन कृषिकः बुद्धस्य कार्यक्रमम् आयोजितवान् । किन्तु प्रवचनदिने सः कृषिकः एव अनुपस्थितः आसीत् । ग्रामजनाः कृषिकः बुद्धस्य विषये अगौरवं दर्शितवान् इति परस्परम् अवदन् । अनन्तरदिने सर्वेषां सम्मुखे बुद्धः कृषिकस्य अनुपस्थितेः कारणं यदा अपृच्छत् तदा कृषिकः अवदत् 'मम वृषभः नितराम् अस्वस्थः आसीत् । पशुचिकित्सालयं प्रति सः नेतव्यः आसीत् । अतः प्रवचनकाले उपस्थातुं न शक्तवान्' इति । तदा बुद्धः जनान् उद्दिश्य अवदत् 'किं कर्म आदौ, किं कर्म अनन्तरम् इत्यस्य निर्णये विवेचनशक्तिः अपेक्ष्यते । स्वकर्तव्यस्य प्राधान्यं चिन्तितवता अनेन उचितम् एव आचरितम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A farmer once organized a discourse by the Buddha but was absent on the day of the sermon. Villagers thought he had disrespected the Buddha. The next day, when Buddha asked the reason for his absence, the farmer explained: ‘My bull was very sick and had to be taken to the veterinary care. Hence I could not attend’. Buddha then told the people: ‘Wisdom lies in deciding what must be done first and what later. By giving priority to his duty, this farmer acted rightly.’
समस्यापरिहारः
कश्चन जनः बह्वीभिः समस्याभिः ग्रस्तः आसीत् । समस्यानां परिहारस्य मार्गं ज्ञातुम् इच्छन् सः कस्यचित् महात्मनः आश्रमं गत्वा मार्गदर्शनं क्रियताम् इति प्रार्थयति । बहुधा पृष्टः अपि महात्मा किमपि उत्तरं न अवदत् । अन्ते महात्मनः मौनप्रतिस्पन्दनं सोढुम् अशक्नुवन् सः जनः अवदत् 'भवान् तु किमपि अवदन् मयि उपेक्षां दर्शयति । समस्यानां परिहाराय अहमेव मार्गं चिन्तयिष्यामि । शरीरे शक्तिः अस्ति । मयि बुद्धिमत्ता अपि अस्ति । तयोः उपयोगेन स्वयम् एव किमपि करिष्यामि' इति । तदा महात्मा - 'स्वसमस्याः स्वयमेव सम्मुखीकरिष्यामि इति उदितः भावः एव सर्वाः समस्याः परिहरिष्यति । एतं भावं पोषयन् अग्रे गच्छ' इति अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
गुडाकेशः लक्ष्मणः
श्रीरामस्य वनवासकाले घटिता घटना एषा । लक्ष्मणः गुडाकेशः इति प्रसिद्धः इति तु वयं जानीमः । गुडाका नाम निद्रा । निद्रायाः ईशः गुडाकेशः । निशादेवीतः प्राप्तवरः एषः । किन्तु किञ्चन निबन्धम् आसीत् । तत् च यावती निद्रा लक्ष्मणेन त्यज्येत तावतीं निद्राम् अन्यः कश्चित् स्वीकुर्यात् इति । सीतायाः यादृशी पतिभक्तिः तादृशी एव पतिभक्तिः ऊर्मिलायाः अपि । अतः सा निद्रादेव्याः प्रस्तावं ससन्तोषम् अङ्गीकृतवती । तदनन्तरं चतुर्दश वर्षाणि यावत् निरन्तरं निद्रां कृतवती । लक्ष्मणः रात्रिसमये अपि जागरितः सन् सीतारामयोः रक्षणम् अकरोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During Rama’s exile, Lakshmana became known as Gudakesha — lord over sleep (gudaka meaning sleep). He had received a boon from the goddess of night to remain awake, but with one condition: the sleep he renounced must be borne by someone else. Just as Sita was devoted to her husband, so too was Urmila, Lakshmana’s wife, deeply devoted. She willingly accepted the goddess’s proposal and took upon herself all the sleep Lakshmana gave up. Thus, for fourteen years Urmila slept continuously, while Lakshmana remained ever wakeful, guarding Rama and Sita even through the nights.
दुर्गुणानां दर्शनम्
कस्यचन शिष्यस्य अध्ययनशीलतां सेवाभावं च दृष्ट्वा सन्तुष्टः गुरुः गुरुकुलात् निर्गमनकाले तस्मै एकं दिव्यं दर्पणं दत्तवान् । पुरतः स्थितस्य जनस्य मनोभावान् दर्शयितुं सामर्थ्यम् आसीत् तस्य दर्पणस्य । तस्य सामर्थ्यं परीक्षितुम् इच्छन् सः आदौ गुरोः पुरतः गृहीतवान् । तत्र मोहाहङ्कारक्रोधादयः तेन लक्षितः । ततः सः मित्राणां पुरतः, मातपित्रोः पुरतः च तं दर्पणं गृहीतवान् । तेन बहवः दुर्गुणाः दृष्टाः । एतस्मात् नितरां खिन्नः सः गुरुकुलं गत्वा स्वस्य अनुभवं निवेदितवान् । तदा गुरुः शिष्यस्य पुरतः दर्पणं गृहीतवान् । शिष्येण बहवः दुर्गुणाः दृष्टाः । तदा गुरुः अवदत् 'स्वीयान् दुर्गुणान् ज्ञात्वा तेषाम् अपसरणाय प्रयासः करणीयः भवता इति उद्देशेन मया अयं दर्पणः दत्तः आसीत् । स्वस्य दुर्गुणानां ज्ञाने अपसारणे च अवधानं भवतु' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A guru, pleased with his disciple’s diligence and service, gifted him a divine mirror when he left the gurukula. This mirror could reveal the inner thoughts and qualities of anyone standing before it. The disciple tested it first on his guru and saw traits like delusion, pride, and anger. He then tried it on his friends and parents, and again saw many faults. Saddened, he returned to the gurukula and shared his experience. The guru then held the mirror before the disciple himself, and the disciple saw his own faults. The guru explained: ‘I gave you this mirror so that you may recognize your own shortcomings and strive to remove them. Focus on self-correction rather than judging others’.
दैनिकनियमपालनम्
नोबेल्-पुरस्कारविजेता भारतरत्नं चन्द्रशेखरवेङ्कटरामः प्रसिद्धः विज्ञानी चेदपि प्रतिदिनं देवपूजानिमित्तम् उपनिषदादिग्रन्थपारायणाय च कञ्चित् समयं नियततया व्ययीकरोति स्म । एतत् जानन् कश्चन विज्ञानी वदति 'प्रसिद्धः विज्ञानी भवान् । यानि विज्ञानसिद्धानि न, तादृशेषु अंशेषु भवतः प्रवृत्तिः न उचिता' इति । तदा वेङ्कटरामः अवत् 'इदानीं तु विज्ञानसिद्धानि न । किन्तु भाविनि काले यदि तेषां विषये प्रमाणं लभ्येत तर्हि मया पश्चात्तापः न अनुभोक्तव्यः स्यात् । अपि च दैनिकनियमैः यदि वयम् आत्मानं बध्नीयाम तर्हि फलं न प्राप्येत चेदपि नियमपालनप्रवृत्तिः तु अस्मान् उपकुर्यात् एव । अतः एव अहं स्वजीवने कांश्चन दैनिकनियमान् पालयामि ' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Chandrasekhara Venkataraman, Nobel laureate and Bharat Ratna awardee, though a renowned scientist, devoted time daily to worship and recitation of the Upanishads. Another scientist once remarked: ‘As a famous scientist, it is not proper for you to engage in things not proven by science’. Raman replied: ‘They may not be scientifically proven now, but if evidence arises in the future, I will not regret having practiced them. Moreover, even if rituals yield no direct results, the discipline of daily practice itself benefits us. That is why I follow certain daily rules in my life’.
सत्फलप्राप्तिः
कदाचित् कश्चन भक्तः भगवन्तं बुद्धम् उपसर्प्य अपृच्छत् 'आर्य! भवतः उपदेशस्य कारणतः अद्यावधि कियन्तः जनाः सत्यदर्शनं प्राप्तवन्तः स्युः, कियन्तः च मोक्षमार्गस्य अनुसरणं कृतवन्तः स्युः' इति । 'अस्य उत्तरं श्वः वदिष्यामि । तदभ्यन्तरे ग्रामे अटित्वा कः किम् इच्छति इति ज्ञात्वा आगच्छतु' इति अवदत् बुद्धः । जनाः तु दुःखस्य निवारणम्, अस्वास्थ्यस्य अपगमनं, पुत्रादीनाम् उद्योगं, धनप्राप्तिं, पौत्रप्राप्तिं, इत्यादिकम् इच्छन्ति इति भक्तेन ज्ञातम् । अनन्तरदिने यदा बुद्धः अपृच्छत् यत् सत्यदर्शनेच्छवः, मोक्षप्राप्तीच्छवः च कियन्तः प्राप्ताः भवता इति तदा भक्तः अवदत् 'न कोऽपि । सर्वे भौतिकसुखं, भौतिकवस्तूनि, भौतिकप्रयोजनं च प्राप्तुम् एव इच्छन्ति' इति । ततः एव भक्तेन स्वस्य प्रश्नस्य उत्तरं प्राप्तम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A devotee once asked the Buddha: ‘Through your teaching, how many have attained true vision and how many have followed the path of liberation?’
The Buddha replied: ‘I will answer tomorrow. Meanwhile, go through the village and find out what people truly desire’. The devotee observed that people wished for relief from suffering, cure from illness, jobs for their children, wealth, grandchildren, and other worldly gains. The next day, when the Buddha asked what he had found, the devotee said: ‘None seek truth or liberation. All desire only material comfort and worldly benefits’. Thus, the devotee himself realized the answer to his question.
लक्ष्म्याः निवासः
'गावः लोके पूज्याः भवन्ति । गोषु वासेन ममापि गौरवं वर्धेत' इति विचिन्त्य लक्ष्मीदेवी गवां समूहम् उपसर्प्य स्वपरिचयम् उक्त्वा स्वेच्छां प्रकटय्य तदर्थम् अनुज्ञां प्रार्थयति । तदा गावः उक्तवत्यः 'पूज्ये! भवती पूजार्हा चेदपि चञ्चलत्वेन भवत्याः अपख्यातिः अस्ति । अतः भवत्यै आश्रयं दातुं नेच्छामः वयम्' इति । 'भवत्यः गुणवत्यः परोपकारशीलाः च । अतः कस्मिंश्चित् अङ्गे वासाय अवसरः दीयताम्' इति पुनः लक्ष्मीः प्रार्थयति । 'भवती गोमूत्रे गोमये च वासं कर्तुम् अर्हति । तेन गोमयगोमूत्रयोः महत्त्वम् इतोऽपि वर्धेत' इति । लक्ष्मीः एतत् अङ्गीकरोति । तस्मात् एव दिनात् तया गोमूत्रे गोमये च लक्ष्म्या वासः आरब्धः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Lakshmi wished to live among cows to gain honor. The cows, citing her fickle nature, refused. Lakshmi pleaded for some place to stay. Moved by her plea, the cows said: “You may dwell in cow dung and cow urine. By your presence there, their importance will grow further”. Lakshmi accepted this arrangement with grace. From that day onward, it is believed that she resides in cow dung and cow urine, which is why they are considered sacred and auspicious in Hindu tradition.
पतितस्य उद्धारः
कदाचित् कश्चन भ्रमणसमये कूपे अपतत् । तं रक्षितुं कश्चन महापुरुषः आगतवान् । सः ग्रन्थिकायुक्तां रज्जुं कूपस्य अन्तः क्षिप्त्वा अवदत् 'ग्रन्थिकां गृहीत्वा त्वम् उपरि आगच्छ' इति । कूपे स्थितस्य कृषिकस्य मनसि संशयः आसीत् । अतः सः अपृच्छत् 'कर्षणसमये रज्जुः भग्ना भवेत् चेत्?’ इति । 'रज्जुः अस्ति शक्तियुक्ता' इति महापुरुषेण उक्ते अपि पुनः पुनः नैकविधान् संशयान् प्रकटयति सः कृषिकः । महापुरुषस्य वचने कृषिकेण विश्वासः न प्राप्तः एव । अतः कृषिकः कूपे एव मरणं प्राप्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a traveler fell into a well. A saint came to rescue him, throwing down a rope with knots and saying: ‘Hold the knots and climb up’. But the man, full of doubt, asked: ‘What if the rope breaks while pulling?’ Though the saint assured him of its strength, the man kept raising new doubts and never trusted the words. Lacking faith, he remained in the well and died there.
स्मरणार्हा राज्ञी वेलुनाचियारा
वेलुनाचियारा बाल्यकाले एव फ्रेञ्च्-आङ्ग्ल-उर्दुप्रभृतयः अनेकाः भाषाः पठिताः । तस्याः पतिः शिवगङ्गीयः मुतुवडुगनाथपेरियः शतकद्वयं यावत् शिवगङ्गायाः पालनं अकरोत् । १७७२ तमे वर्षे ईस्ट्-इण्डियासंस्थया यदा शिवगङ्गा स्वायत्तीकृता तस्मिन् युद्धे राजा अम्रियत । राज्ञी वेलुनाचियारा पुत्र्या साकं पलायनम् अकरोत् । आङ्ग्लेभ्यः शिवगङ्गां पुनः प्राप्तुं दृढनिश्चयं कृत्वा राज्ञी अष्ट वर्षाणि यावत् सन्नाहकार्यं कृतवती । सा मैसूरुराज्यस्य शासकेन हैदरालिना मिलित्वा तस्य साहाय्यं स्वीकृत्य १७८० तमे वर्षे आङ्ग्लान् विरुध्य युद्धम् अकरोत् । आङ्ग्लानां स्फोटकास्त्रप्रकोष्ठः नाशितः । स्फोटास्त्राभावेन अङ्ग्लाः पलायिताः । राज्ञी शिवगङ्गां प्रतिप्राप्नोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Velu Nachiyar, queen of Sivaganga, had studied many languages including French, English, and Urdu in her childhood. Her husband, Muthu Vaduganatha Periyavudaya Thevar, ruled Sivaganga for two decades. In 1772, when the East India Company seized Sivaganga, the king was killed and the queen fled with her daughter. Determined to reclaim her kingdom, Velu Nachiyar spent eight years preparing for war. She allied with Hyder Ali of Mysore and, in 1780, fought against the British. In the battle, the British ammunition depot was destroyed, forcing them to retreat. Velu Nachiyar thus regained Sivaganga.
हुतात्मा बालः
१९२९ तमे वर्षे गोवाराज्ये अस्नोडनामके लघुनगरे जन्म प्राप्नोत् बालारायामापारीवर्यः । गोवामुक्तिसङ्ग्रामस्य नेतारं तं जनाः 'बालः' इति शब्देन निर्दिशन्ति स्म । तदा पोर्तुगीज्-शासनम् आसीत् । स्वतन्त्रगोमान्तकदलनामिकायां संस्थायां सः विस्फोटकनिर्माणप्रयोगादिकं, भुशुण्डिचालनादिकं च ज्ञातवान् । १९५५ तमे वर्षे अस्नोडीये आरक्षकालये विस्फोटः जातः येन दशाधिकाः आरक्षाः प्राणवियोगं प्राप्तवन्तः । गोवायाम् इव दादरनागरहवेलीप्रदेशे पोर्तुगीज्-शासनम् आसीत् । स्वतन्त्रगोमान्तकदलस्य प्रयासेन स च प्रदेशः पोर्तुगीज्-शासनात् मुक्तिं प्राप्नोत् इति कारणात् क्रुद्धपोर्तुगीज्-शासनेन २०-२५ स्वातन्त्र्ययोद्धारः गृहीताः । तेषु बालः अपि अन्यतमः । अनेकविधानां पीडानां कारणतः कारागारे एव सः प्राणवियोगं प्राप्नोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In 1929, in the small town of Assonora in Goa, Balaraya Mapari was born. In the Goa liberation struggle, people referred to him simply as ‘Bala’. At that time, Goa was under Portuguese rule. Bala joined the organization called Swatantra Gomantak Dal, where he learned the use of explosives and firearms. In 1955, a blast at the Assonora police station killed more than ten policemen. Like Goa, the region of Dadra and Nagar Haveli was also under Portuguese rule. Through the efforts of the Swatantra Gomantak Dal, that region was freed, which angered the Portuguese authorities. In retaliation, 20–25 freedom fighters were arrested, Bala among them. Subjected to severe torture, Bala died in prison — a martyr of Goa’s freedom struggle.
अमरत्वम्
अमरत्वं प्राप्तव्यम् इति कस्यचन राज्ञः महती इच्छा जाता । कस्यचन कूपस्य जलं पीतं चेत् अमरत्वं निश्चयेन प्राप्स्यते इति राज्ञा कथञ्चित् ज्ञातम् । अमरत्वदायकस्य कूपस्य अन्वेषणं यदा जातं तदा राजा कूपात् जलम् उद्धृत्य तत् पातुम् उद्यतः । तावता कूपसमीपे स्थितः कश्चन काकः अवदत् 'एतत् जलं मा पिब । अहम् अमरत्वं प्राप्य पश्चात्तापम् अनुभवामि । मम गृहजनाः, बान्धवाः दिवं गताः । अहम् एकाकी अस्मि । अमरत्वप्राप्त्या मया किमपि न साधितम् । मृत्युः मम समीपं न उपसर्पति । मम दुःखस्य अन्त्यमेव नास्ति' इति । एतत् श्रुतवता राज्ञा विवेकः प्राप्तः । सः तत्रैव जलं पातयित्वा काकं नमस्कृत्य ततः प्रतिगतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
अमरत्वम्
A king once longed for immortality. He learned of a well whose water could grant eternal life. When he drew the water and was about to drink, a crow nearby warned him: ‘Do not drink. I myself gained immortality and now regret it. My family and friends have all passed away, leaving me alone. Death never approaches me, and my suffering has no end’. Hearing this, the king gained wisdom, poured the water back, bowed to the crow, and returned.
उत्तमा नीतिः उत्कृष्टेन क्रमेण
कदाचित् कश्चन राजा वैराग्यं प्राप्य संन्यासी जातः । भिक्षाटनसमये काचित् माता तस्मै त्रीन् तण्डुलकणान् दत्तवती । त्रीन् अंशान् ज्ञापयितुं त्रयः तण्डुलकणाः दत्ताः इति उक्त्वा ते च के इति कथयति सा । 'कामक्रोधलोभमोहादयः शत्रवः यदि भवता दूरे स्थाप्येरन् तर्हि भवतः सुरक्षितता सिद्धा । प्रतिदिनं परिश्रमः, योग्याभ्यासः इत्यादयः नियततया कृताः चेत् महती बुभुक्षा बाधते । तदा शुष्का रोटिका अपि परमस्वादुतया भासते । यदा शरीरश्रमः अधिकः भवेत् तदा एव सुखनिद्रा प्राप्येत । अतः शरीरश्रमः भवतः अधिकः भवेत् सर्वदा' इति । 'उत्तमा नीतिः उत्कृष्टेन क्रमेण ज्ञापिता भवत्या' इति उक्त्वा राजा तां कृतज्ञतापूर्वकं नमस्कृत्य ततः अग्रे गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a king renounced the world and became a monk. While begging, a mother gave him three grains of rice. She explained: ‘These three grains symbolize three lessons. First, if you keep away enemies like desire, anger, greed, and delusion, you will be safe. Second, with daily effort and disciplined practice, even a dry bread tastes sweet when hunger is great. Third, when the body is well-exerted, only then comes peaceful sleep. Therefore, let hard work always be your companion’. The king, moved by her wise teaching, bowed with gratitude and went on his way.
अनुग्रहः
सूर्याजिपन्तस्य ज्येष्ठपुत्रं गङ्गाधरं 'श्रेष्ठ' पदेन निर्दिशति स्म । सः आसीत् शान्तस्वभावः । श्रेष्ठस्य भगवद्भक्तिः बाल्यात् एव अपूर्वा आसीत् । दशमे वयसि 'अनुग्रहप्रसादं यच्छतु' इति पितरम् अभ्यर्थितवान् । 'हनुमतः मन्दिरं गत्वा अभ्यर्थय' इति पिता अवदत् । पित्राज्ञां पुरस्कृत्य श्रेष्ठः मदिरं गत्वा एकादश दिनानि यावत् निराहारं स्थितवान् । बालकस्य एतां निष्ठां तपश्चर्यां च दृष्ट्वा मारुतिः प्रसन्नः भूत्वा श्रीरामचन्द्रस्य दर्शनं कारितवान् । श्रीरामचन्द्रेण देवालये त्रयोदशाक्षरमन्त्रं कथयित्वा 'रामीरामदासः' इति तस्य नाम कृतम् । ततः अग्रे सः यान् यान् ग्रन्थान् रचितवान्, तत्र सर्वत्र 'रामीरामदासः' इत्येव स्वस्य नाम्नः उल्लेखं कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Surya Jipant’s eldest son, Gangadhara, was called Sreshta. Calm by nature, his devotion to God was extraordinary from childhood. At the age of ten, he asked his father for divine grace. His father directed him to pray at Hanuman’s temple. Obeying, Sreshta fasted there for eleven days. Seeing his steadfastness, Hanuman was pleased and arranged for him to have the vision of Lord Rama. In the temple, Rama gave him the thirteen-syllable mantra and named him Ramiramadasa. Later, in all the works he composed, he always mentioned his name as Ramiramadasa.
योग्यता
वृन्दावनगमनमार्गे कञ्चित् साधुं यदा कश्चन पुरुषः अपृच्छत् 'वृन्दावनधाम कियत् दूरे अस्ति ?’ इति तदा साधुः अवदत् 'तिस्रः घण्टाः अपेक्षिताः' इति । यदा अपरः यात्री अपृच्छत् तदा 'होराद्वयम् अपेक्षितम्' इति अवदत् । यदा कश्चन वृद्धः अपृच्छत् तदा 'एका होरा अपेक्ष्यते' इति अवदत् । सम्मुखे स्थितः कश्चन सज्जनः साधुम् अपृच्छत् 'किमर्थं भवान् विभिन्नानि उत्तराणि उक्तवान्?’ इति । तदा साधुः अवदत् 'प्रथपुरुषस्य शिरसि स्थितायां पोटलिकायां पूर्वजन्मकृतानि पापानि, पेटिकायाम् 'अहं गन्तुं शक्नोमि वा न वा ? इति संशयः च आसीत् । द्वितीयस्य मनसि 'मम पत्नी, मम पुत्रः' इति ममत्वम् आसीत् । तृतीयः वृद्धः रिक्तहस्ततया आगतवान् । तस्य मनसि अहङ्कारः, भौतिकासक्तिः वा न आसीत् । अतः मया तत्तज्जनयोग्यतानुगुणम् उत्तरम् उक्तम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
On the way to Vṛindāvana, a man asked a saint: ‘How far is the holy place?’ The saint replied: ‘Three hours.’ Another traveler asked, and the saint said: ‘Two hours.’ A third, an old man, asked, and the saint answered: ‘One hour’. A gentleman nearby asked why the saint gave different answers. The saint explained: ‘The first man carried a heavy bundle of past sins and doubts about his ability to reach. The second was burdened with attachments to wife and children. The third, an old man, came empty-handed, free from ego and worldly ties. Therefore, I gave each answer according to his inner state’.
किं वस्तु बलवत्तमम्
कस्मिंश्चित् गुरुकुले पञ्च शिष्याः अध्ययनं कुर्वन्ति स्म । तेषु कश्चन अन्धः सन् महता यत्नेन अध्ययनं करोति स्म । कदाचित् गुरुः अपृच्छत् 'जगति बलवत्तमं वस्तु किं स्यात्?’ इति । प्रथमः शिष्यः शस्त्रम्, द्वितीयः अयः, तृतीयः अग्निः, चतुर्थः जलम् इति यथाक्रमम् अवदन् । अन्धशिष्येन कथितम् 'बाह्यजगति स्युः नैकानि बलवत्तमवस्तूनि । किन्तु तेषां सर्वेषां भौतिकवस्तूनाम् अपेक्षया बलवत्तमं च भवति 'दृढसङ्कल्पः' । अयं शस्त्रं निगृह्णाति, अयः द्रवीकरोति, अग्निं शमयति, जलं च बाष्पीकृत्य आकाशं प्रति प्रेषयति' इति । अनेन उत्तरेण अन्धे शिष्ये विद्यमानः दृढसङ्कल्पः कियान् बलिष्ठः स्यात् इति गुरुणा अवगतम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a gurukula, five disciples were studying. One of them was blind but worked hard. One day, the teacher asked: ‘What is the strongest force in the world?’. The first disciple said ‘weapons,’ the second ‘iron,’ the third ‘fire,’ and the fourth ‘water’. The blind disciple replied: ‘There are many powerful things in the external world, but stronger than all material forces is firm determination. Determination can control weapons, melt iron, extinguish fire, and turn water into vapor that rises to the sky’. From this answer, the teacher realized how powerful the blind disciple’s inner resolve truly was.
महताम् उत्तरदायित्वं महत्
कदाचित् भगवान् बुद्धः सरोवरे सद्योविकसितस्य कमलस्य सुगन्धस्य आस्वादनम् आरब्धवान् । तावता काचित् देवकन्या प्रत्यक्षा भूत्वा अवदत् 'किमपि मूल्यम् अदत्त्वा पुष्पस्य गन्धम् आजिघ्रति भवान् । एतत् चौर्यम्' इति । तावता अन्यः कश्चन आगत्य बहूनां कमलपुष्पाणां निर्दाक्षिण्यम् उत्पाटनम् आरब्धवान् । किन्तु सा देवकन्या तम् उद्दिश्य किमपि न अवदत् । तथा किमर्थम् इति बुद्धेन पृष्टे देवकन्या अवदत् 'लोभतृष्णादिभिः अभिभूताः सांसारिकाः धर्माधर्मयोः भेदं न जानन्ति । अतः धर्मरक्षणस्य भारः अपि तेषु आधिक्येन न भवति । किन्तु ये धर्मपरायणाः स्युः, तेषाम् अल्पा एव मार्गभ्रष्टता भवति महते पापाय । महताम् उत्तरदायित्वम् अपि भवति महत् एव' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, the Buddha enjoyed the fragrance of a freshly blossomed lotus in a lake. A celestial maiden appeared and said: ‘You smell the flower’s fragrance without paying anything — this is theft’. Meanwhile, another man came and ruthlessly plucked many lotuses. Yet the maiden said nothing to him. Curious, the Buddha asked why. She replied: ‘Worldly people, overcome by greed and desire, cannot distinguish between right and wrong; hence the burden of protecting dharma does not fall heavily upon them. But those devoted to righteousness — even a small deviation can lead to great sin. For the virtuous, responsibility is as great as their stature’.
वाक्चातुर्येण जातः कविः
कदाचित् बहुपुत्रवान् कश्चन वलयविक्रयिकः पुत्रेण सह वाणिज्याय प्रस्थितः पार्श्वस्थं ग्रामं प्रति । तस्मिन् एव ग्रामे राजमाता अत्तिमब्बा अपि वसति स्म । पार्श्वग्रामे स्थितं प्रासादम् उपसर्प्य मातॄः आहूतवान् वलयक्रयणार्थम् । तावता लघुवयस्कः तस्य पुत्रः बालवचनैः 'आगच्छन्तु मातरः, अयं रक्तवर्णीयः भवत्यै युज्यते । नीलवर्णीयः तस्यै युज्यते .....' इति वदन् एकैकाम् अपि पश्यन् वाक्चातुर्येण सर्वासां मनः आकृष्टवान् । तं बुद्धिमन्तं वाक्चतुरं बालं दृष्ट्वा तस्य शिक्षणव्यवस्थायाः उत्तरदायित्वं राजमाता स्वीकरोति । गच्छता कालेन श्रद्धया पठन् सः 'महाकविः रन्नः' इति कन्नडसाहित्यलोके ख्यातिं गतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A bangle-seller once went with his young son to a nearby village where Queen Mother Attimabbe lived. At the palace, he invited the women to buy bangles. The boy, with charming words, suggested which colors suited each lady, captivating everyone with his wit and eloquence. Seeing his intelligence, Attimabbe took responsibility for his education. With dedication, the boy studied and in time became celebrated in Kannada literature as the great poet Ranna.
प्राप्तानां परिष्कारः एव धर्मः
कश्चन धान्यवणिक् किञ्चन गुरुकुलं गतवान् । गुरुकुलं धनयुक्तं तु न । व्यवस्था अपि सामान्या । अतः सः वणिक् अवदत् 'नूतनानि परिवर्तनानि, व्यवस्थायां परिवर्तनानि अपेक्ष्यन्ते अत्र । तदा गुरुकुलस्य ख्यातिः वर्धते' इति । किन्तु गुरुकुलस्य आचार्यः प्रत्यवदत् 'ख्यातिप्राप्त्युद्देशः न अस्माकम् । सर्वविधाः छात्राः प्राप्यन्ते अत्र । सर्वान् सम्यक् अध्याप्य उत्तमविद्यावतः कर्तुं प्रयासं कुर्मः वयम् । वयं स्म शिक्षकाः, न तु वणिजः......’ इति । तद् वचनम् अङ्गीकुर्वन् वणिक् आचार्यं नमस्कृत्य प्रभूतं धनं गुरुकुलाय दत्त्वा ततः गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A grain merchant once visited a gurukula. The institution was poor and its arrangements simple. The merchant suggested: ‘Introduce new changes and improvements; then the gurukula’s fame will grow’. But the teacher replied: ‘Our aim is not fame. Students of all kinds come here, and we strive to educate them well and make them truly learned. We are teachers, not merchants’. Accepting these words, the merchant bowed to the teacher, donated a large sum of money to the gurukula, and departed.
अपूर्वम् उपायानम्
इमर्सनः कश्चन क्रैस्तधर्मगुरुः । भगवद्गीतया आकृष्टः सः स्वस्य धर्मगुरुत्वं परित्यज्य भगवद्गीतायाः प्रचारे मग्नः अभवत् । कदाचित् सः इङ्ग्लेण्ड्-देशं गतः तत्रत्यं कञ्चन महादार्शनिकं कार्यायिलं द्रष्टुम् । सम्भाषणावसरे कार्यायिलः अपृच्छत् 'मह्यं कीदृशम् उपायनम् आनीतम्?’ इति । 'मम देशे महती सम्पत्तिः चेदपि सांस्कृतिकदृष्ट्या तु वयम् अकिञ्चनाः । मया अपूर्वम् उपायनं दीयते किन्तु तत् न मद्देशीयम् , अपि तु भारतीयम्' इत्युक्त्वा इमर्सनः भगवद्गीतां कार्यायिलाय अयच्छत् । एतत् उपायनं प्रीत्या स्वीकृत्य कार्यायिलः अपि तस्मै उपायनत्वे भगवद्गीताम् एव आनीतवान् आसीत् । एकः अमेरिकीयः अपरः इङ्ग्लेण्ड्-देशीयः च । किन्तु उभौ अपि उपायनीकुरुतः भारतीयां भगवद्गीताम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Emerson, once a Christian preacher, was deeply drawn to the Bhagavad Gita. He gave up his priesthood and devoted himself to spreading its message. On a visit to England, he met the great philosopher Carlyle. During their conversation, Carlyle asked what gift Emerson had brought him. Emerson replied: ‘Though my country is wealthy, culturally we are poor. I bring you a unique gift, not from my land but from India.’ He then presented Carlyle with the Bhagavad Gita. Carlyle accepted it with joy and, in return, gifted Emerson the same — the Bhagavad Gita. Thus, one was American, the other English, yet both chose an Indian scripture as their highest offering.
भगवत्तत्त्वम्
आत्मानं नास्तिकं मन्यमानं कञ्चन राजानं द्रष्टुं कश्चन संन्यासी आगतवान् । तम् आशिषा अनुगृह्य मन्दहासपूर्वकम् अपृच्छत् संन्यासी 'भगवतः कृपया भवतः देशे सर्वं कुशलं ननु?’ इति । तत् श्रुत्वा राजा असन्तोषेण अवदत् 'देशे सर्वं कुशलम् एव । किन्तु अत्र न भगवतः दयायाः पात्रता कापि' इति । ततः संन्यासी मन्दहासं प्रकटयन् तं कांश्चन प्रश्नान् अपृच्छत् । राज्ञः मुखात् आगतैः उत्तरैः एव प्रतिपादयति संन्यासी यत् राजा भगवतः सत्ताम् इच्छति इति । तदनन्तरं भगवत्तत्त्वं अपि विवृणोति । तस्मात् प्रभावितः राजा भगवत्तत्त्वविषये बहून् प्रश्नान् अपृच्छत् । संन्यासिनः बोधनस्य कारणतः अल्पे एव काले सः भगवति श्रद्धावान् जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A monk once visited a king who considered himself an atheist. With a gentle smile, the monk blessed him and asked: ‘By God’s grace, is everything well in your kingdom?’. Annoyed, the king replied: ‘All is well here, but there is no place for God’s grace’. The monk, still smiling, asked him a series of questions. From the king’s own answers, the monk showed that the king indeed desired the existence of God. He then explained the nature of the Divine. Deeply moved, the king asked many questions about God, and through the monk’s teaching, soon developed faith in the Divine.
योग्यं प्रशासनम्
उत्तमस्य प्रशासनस्य परिणामः कः इति अनया कथया ज्ञातुं शक्नुमः । कदाचित् केनचन संन्यासिना स्वशिष्यैः सह काचित् रुदती महिला दृष्टा । कारणे पृष्टे ज्ञातं यत् केनचन नरभक्षकेन व्याघ्रेण तस्याः परिवारसदस्याः, अन्ये केचन ग्रामजनाः च निष्ठुरतया भक्षिताः इति । शिष्येषु कश्चन अवदत् यत् एतं प्रदेशं परित्यज्य अन्यत् स्थानं गच्छेयुः इति । किन्तु तन्नीराकृत्य महिला अवदत् 'एतस्य प्रदेशस्य राजा सज्जनः धर्मनिष्ठः प्रजानुरागी च । देशे द्रोहः, वञ्चना, उत्कोचः, अन्याय्यं वा न दृश्यते । उत्तमे राजशासने सति वयम् अन्यत्र क्व वा गच्छेम?’ इति । तत् श्रुत्वा संन्यासी अवदत् 'बहूनि कष्टानि आपतेयुः चेदपि योग्ये प्रशासके सति जनाः तानि सहन्ते एव । तेनैव भूमिः नन्दनवनायते' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This tale shows the result of good governance. Once, a monk with his disciples saw a weeping woman. On asking, they learned that her family and some villagers had been cruelly devoured by a man-eating tiger. One disciple suggested leaving the region. But the woman refused, saying: ‘The king here is virtuous, righteous, and devoted to his people. In this land there is no treachery, deceit, bribery, or injustice. With such noble rule, where else could we go?’. Hearing this, the monk said: ‘Even if many hardships arise, people endure them under a worthy ruler. By his governance, the land itself becomes like a paradise.’